|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.118. अध्यायः 118
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सचिवादिगुणवर्णनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-118-0x(5660)(69351)
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्।
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः॥ 12-118-1(69352)
एवं राज्ञा मतिमता विदित्वा शीलशौचताम्।
आर्जवं प्रकृतिं सत्वं श्रुतं वृत्तं कुलं दमम्॥ 12-118-2(69353)
अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम्।
भृत्यायेमन्त्रिणो योग्यास्तत्र स्थाप्याः सुरक्षिताः॥ 12-118-3(69354)
नाषरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति।
अकुलीननराकीर्णो न राजा सुखमेधते॥ 12-118-4(69355)
कुलजः प्राकृतो राजंस्तत्कुलीनतया सदा।
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि॥ 12-118-5(69356)
अकुलीनस्तु पुरुषः प्राकृतः साधुसंक्षयात्।
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्॥ 12-118-6(69357)
`काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च।
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः॥ 12-118-7(69358)
लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा।
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम्॥ 12-118-8(69359)
दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुम।
अहिंसाशीलसंयोगाद्धर्मश्चाऽऽकुलतां व्रजेत्॥ 12-118-9(69360)
धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः।
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि॥ 12-118-10(69361)
असितं सितकर्माणं यथा दान्तं तपस्विनम्।
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः॥ 12-118-11(69362)
यदि घातयते कश्चित्पापसत्वं प्रजाहितः।
सर्वसत्वहितार्थाय न तेनासौ विहिंसकः॥ 12-118-12(69363)
द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च।
महिषं च वराहं च सूकरं श्वानपन्नगान्॥ 12-118-13(69364)
गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च।
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित्॥ 12-118-14(69365)
ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शु वः।
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृत्तमः॥ 12-118-15(69366)
दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः।
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम्॥ 12-118-16(69367)
शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः।
नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु॥' 12-118-17(69368)
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्।
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा॥ 12-118-18(69369)
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्।
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्॥ 12-118-19(69370)
सचिवं देशकालज्ञं सर्वसंग्रहणे रतम्।
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम्॥ 12-118-20(69371)
युक्ताचारं स्वविषये संधिविग्रहकोविदम्।
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम्॥ 12-118-21(69372)
सेनाव्यूहनतत्त्वज्ञं बलहर्षणकोविदम्।
इङ्गिताकरातत्त्वज्ञं यात्रासेनाविशारदम्॥ 12-118-22(69373)
हस्तिशिक्षाश्वतत्त्वज्ञमहंकारविवर्जितम्।
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम्॥ 12-118-23(69374)
चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम्।
नायकं नीतिकुशलं गुणैः षङ्भिः समन्वितम्॥ 12-118-24(69375)
अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च।
धीरं महर्द्धि च देशकालोपपादकम्॥ 12-118-25(69376)
सचि यः प्रकुरुते न चैनमवमन्यते।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव॥ 12-118-26(69377)
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः॥ 12-118-27(69378)
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्।
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः॥ 12-118-28(69379)
मेधावी धारणायुक्तो यथान्यायोपपादकः।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये॥ 12-118-29(69380)
नातिच्छेत्ता स्वयंकारी श्रद्धालुः सुखदर्शनः।
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः॥ 12-118-30(69381)
नाहंवादी ननिर्द्वन्द्वो नयत्किंचनकारकः।
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः॥ 12-118-31(69382)
संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा।
त्राता भृत्यजनापेक्षी न क्रोधी सुमहामनाः॥ 12-118-32(69383)
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा॥ 12-118-33(69384)
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्।
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः॥ 12-118-34(69385)
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे।
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता॥ 12-118-35(69386)
योधाः समरशौण्डीराः कृतज्ञाः शास्त्रकोविदाः।
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः॥ 12-118-36(69387)
अर्थमानविवृद्धाश्च रथचर्याविशारदाः।
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही॥ 12-118-37(69388)
`ज्ञातीनामनवज्ञानं भृत्येष्वशठता तथा।
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही॥ 12-118-38(69389)
आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता।
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही॥ 12-118-39(69390)
वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता।
धर्मचर्याः सदा यस्य तस्येयं सुचिरं मही॥ 12-118-40(69391)
नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च।
रिपूणामनवज्ञानं तस्येयं सुचिरं मही॥ 12-118-41(69392)
उत्थानं चैव दैवं च तयोर्नानात्वमेव च॥
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि॥ 12-118-42(69393)
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत।
नयानयविधानज्ञः सदा भव कुरूद्वह॥ 12-118-43(69394)
दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान्।
विशेषविच्च भृत्यानां स राज्यफलमश्नुते॥ ' 12-118-44(69395)
सर्वसंग्रहणे युक्तो नृपो भवति यः सदा।
उत्थानशीलो मन्त्राढ्यः स राजा राजसत्तमः॥ 12-118-45(69396)
शक्या चाश्वसहस्रेण वीरारोहेण भारत।
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा॥ ॥ 12-118-46(69397)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः॥ 118॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-118-6 अकुलीनस्तु निन्दामात्रेण शत्रुतां व्रजेत्। साधुसंश्रश्चादिति झ. पाठः॥ 12-118-19 स्वामिनो मित्राणां बुभूषकं ऐश्वर्यलिप्सुम्॥ 12-118-20 सर्वसंग्रहणे प्राणिमात्ररञ्जने॥ 12-118-24 चौक्षं शुद्धम्॥ 12-118-28 मर्षी क्षमी॥ 12-118-29 विपर्ययेऽक्षमावति अपकारिणि क्षमावान्॥ 12-118-31 ननिर्द्वन्द्वो ननिष्परिग्रहः॥ 12-118-33 चारनेत्रः परापेक्षी इति ट. ड. थ. पाठः॥ 12-118-37 अभया गजपृष्ठस्थाः इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|